१.१८.१०

श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥

अन्वयः

अस्मै for him, बहुरूपम् several forms of, श्रेयश्च blessings for his wellbeing, प्रदास्यामि I will confer, संशय:न no doubt, येन by which, त्रयाणाम् of the three, लोकानामपि worlds also, ख्यातिम् fame, गमिष्यति he will attain.

Summary

I will confer upon him, without doubt, a lot of blessings for his wellbeing by which he will attain fame in all the three worlds.

पदच्छेदः

श्रेयश्श्रेयस् (२.१)
चास्मै (अव्ययः)–इदम् (४.१)
प्रदास्यामिप्रदास्यामि (√प्र-दा लृट् उ.पु. )
बहुरूपंबहुरूप (२.१)
(अव्ययः)
संशयःसंशय (१.१)
त्रयाणाम्त्रि (६.३)
अपिअपि (अव्ययः)
लोकानांलोक (६.३)
येनयद् (३.१)
ख्यातिंख्याति (२.१)
गमिष्यतिगमिष्यति (√गम् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रे श्चा स्मैप्र दा स्यामि
हु रू पं सं यः
त्र या णापि लो का नां
ये ख्या तिं मिष्यति