१.१८.९

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥

अन्वयः

मया by me, गुप्त: protected, एष: he, दिव्येन by the divine, स्वेन his own, तेजसा by power, ये विकर्तार: those causing impediments, राक्षसा: rakshasas, तेषामपि even to them, विनाशने in destroying, शक्त: हि is capable.

Summary

Protected by me and by his own divine power, Rama is capable of destroying even those demons causing impediments to the sacrifice.

पदच्छेदः

शक्तोशक्त (√शक् + क्त, १.१)
ह्य्हि (अव्ययः)
एषएतद् (१.१)
मयामद् (३.१)
गुप्तोगुप्त (√गुप् + क्त, १.१)
दिव्येनदिव्य (३.१)
स्वेनस्व (३.१)
तेजसातेजस् (३.१)
राक्षसाराक्षस (१.३)
येयद् (१.३)
विकर्तारस्विकर्तृ (१.३)
तेषाम्तद् (६.३)
अपिअपि (अव्ययः)
विनाशनेविनाशन (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्तो ह्ये या गु प्तो
दि व्ये स्वे ते सा
राक्ष सा येवि र्ता
स्ते षापिवि ना ने