१.१८.१३

न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।
अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥

अन्वयः

पार्थिव O King, पुत्रकृतम् developed towards your son, स्नेहम् paternal affection, कर्तुम् to do, न अर्हसि it is not proper for you, तौ राक्षसौ both those rakshasas, हतौ (will) perish, विद्धि know it well, अहम् I, ते to you, प्रतिजानामि I assure you.

Summary

"O king it is not proper for you to hesitate because of your paternal affection. You need to know that both the rakshasas will perish. This, I assure you.

पदच्छेदः

(अव्ययः)
(अव्ययः)
पुत्रकृतंपुत्र–कृत (√कृ + क्त, २.१)
स्नेहंस्नेह (२.१)
कर्तुम्कर्तुम् (√कृ + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )
पार्थिवपार्थिव (८.१)
अहंमद् (१.१)
तेत्वद् (४.१)
प्रतिजानामिप्रतिजानामि (√प्रति-ज्ञा लट् उ.पु. )
हतौहत (√हन् + क्त, २.२)
तौतद् (२.२)
विद्धिविद्धि (√विद् लोट् म.पु. )
राक्षसौराक्षस (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुत्रकृ तं स्ने हं
र्तुर्हसि पार्थि
हं तेप्रति जा नामि
तौ तौ विद्धि राक्ष सौ