१.१८.१४

अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।
वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥

अन्वयः

महात्मानम् nobleminded, सत्यपराक्रमम् truthful to his prowess, रामम् Rama, अहम् I, वेद्मि I know, महातेजा: highly lustrous, वसिष्ठोऽपि Vasishta also, ये तपसि स्थिता: those who are steadfast in asceticism, इमे sages.

Summary

I know Rama who is a great soul, true to his prowess and also Vasishta of great lustre and these other sages who have been steadfast in asceticism also know.

पदच्छेदः

अहंमद् (१.१)
वेद्मिवेद्मि (√विद् लट् उ.पु. )
महात्मानंमहात्मन् (२.१)
रामंराम (२.१)
सत्यपराक्रमम्सत्य–पराक्रम (२.१)
वसिष्ठोवसिष्ठ (१.१)
ऽपिअपि (अव्ययः)
महातेजामहत्–तेजस् (१.१)
येयद् (१.३)
चेमे (अव्ययः)–इदम् (१.३)
तपसितपस् (७.१)
स्थिताःस्थित (√स्था + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हं वेद्मि हा त्मा नं
रा मंत्य राक्र मम्
सि ष्ठोऽपि हा ते जा
ये चे मे सिस्थि ताः