१.१९.१४

सर्वं मे शंस भगवन्कथं तेषां मया रणे ।
स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः ॥

अन्वयः

भगवन् O Venerable one, दुष्टभावानाम् of the wicked natured, तेषाम् of them, मया by me, रणे in the battle, कथम् how, स्थातव्यम् to stay, सर्वम् all this matter, मे to me, शंस tell, राक्षसा: rakshasas, वीर्योत्सिक्ता: proud of their prowess, तस्य his, तत् वचनम् those words, श्रुत्वा having heard, विश्वामित्र: Viswamitra, अभ्यभाषत spoke.

Summary

O venerable one, how to fight those wickednatured ones in the battle and stay aginst them? For rakshasas are proud of their prowess". Having heard the words of Dasaratha, Viswamitra said:

पदच्छेदः

सर्वंसर्व (२.१)
मेमद् (४.१)
शंसशंस (√शंस् लोट् म.पु. )
भगवन्भगवन्त् (८.१)
कथंकथम् (अव्ययः)
तेषांतद् (६.३)
मयामद् (३.१)
रणेरण (७.१)
स्थातव्यंस्थातव्य (√स्था + कृत्, १.१)
दुष्टभावानांदुष्ट (√दुष् + क्त)–भाव (६.३)
वीर्योत्सिक्तावीर्य–उत्सिक्त (√उत्-सिच् + क्त, १.३)
हिहि (अव्ययः)
राक्षसाःराक्षस (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वं मे शं
न्क थं ते षां या णे
स्था व्यं दुष्ट भा वा नां
वी र्यो त्सि क्ताहि राक्ष साः