१.१९.२१

न शक्ता रावणं सोढुं किं पुनर्मानवा युधि ।
स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः ॥

पदच्छेदः

(अव्ययः)
शक्ताशक्त (√शक् + क्त, १.३)
रावणंरावण (२.१)
सोढुंसोढुम् (√सह् + तुमुन्)
किं (२.१)
पुनर्पुनर् (अव्ययः)
मानवामानव (१.३)
युधियुध् (७.१)
तद् (१.१)
हिहि (अव्ययः)
वीर्यवतांवीर्यवत् (६.३)
वीर्यम्वीर्य (२.१)
आदत्तेआदत्ते (√आ-दा लट् प्र.पु. एक.)
युधियुध् (७.१)
राक्षसःराक्षस (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ता रा णं सो ढुं
किंपु र्मा वायुधि
हि वीर्य तां वीर्य
मा त्तेयुधि राक्ष सः