१.१९.२३

कथमप्यमरप्रख्यं संग्रामाणामकोविदम् ।
बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम् ॥

अन्वयः

ब्रह्मन् O Brahman, अमरप्रख्यम् resembling celestial deities, सङ्ग्रामाणाम् in the warfare, अकोविदम् not experienced, बालं पुत्रकम् dear young child, मे my, तनयम् son, कथमपि how so ever, नैव दास्यामि I never, never give him.

Summary

O brahman although my son resembles the celestials he is not experienced in warfare. On no account shall I spare him.

पदच्छेदः

कथम्कथम् (अव्ययः)
अप्य्अपि (अव्ययः)
अमरप्रख्यंअमर–प्रख्या (२.१)
संग्रामाणाम्संग्राम (६.३)
अकोविदम्अकोविद (२.१)
बालंबाल (२.१)
मेमद् (६.१)
तनयंतनय (२.१)
ब्रह्मन्ब्रह्मन् (८.१)
नैव (अव्ययः)–एव (अव्ययः)
दास्यामिदास्यामि (√दा लृट् उ.पु. )
पुत्रकम्पुत्रक (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्य प्र ख्यं
सं ग्रा मा णा कोवि दम्
बा लं मे यं ब्रह्म
न्नै दा स्यामि पुत्र कम्