१.२.१५

तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ॥

अन्वयः

एवम् in this manner, ब्रुवत: having uttered, वीक्षत: reflecting, तस्य हृदि in his heart, अस्य शकुने: शोकार्तेन distressed by the grief of this bird, मया व्याहृतम् uttered by me, इदम् these words, किम् what?, चिन्ता बभूव a thought arose.

M N Dutt

Having uttered this, he got worried within himself, What is this that I have said, afflicted with grief for the bird?

Summary

Brooding over his utterances, he reflected, 'What is this that I uttered in reaction to the grief of this bird?'

पदच्छेदः

तस्यैवंतद् (६.१)–एवम् (अव्ययः)
ब्रुवतश्ब्रुवत् (√ब्रू + शतृ, ६.१)
चिन्ताचिन्ता (१.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
हृदिहृद् (७.१)
वीक्षतःवीक्षत् (√वि-ईक्ष् + शतृ, ६.१)
शोकार्तेनास्यशोक–आर्त (३.१)–इदम् (६.१)
शकुनेःशकुनि (६.१)
किम् (१.१)
इदंइदम् (१.१)
व्याहृतंव्याहृत (√व्या-हृ + क्त, १.१)
मयामद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यै वंब्रु श्चि न्ता
भूहृदि वीक्ष तः
शो का र्ते नास्यकु नेः
किमि दं व्याहृ तं या