१.२.१६

चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम् ।
शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः ॥

अन्वयः

महाप्राज्ञ: highly learned, मतिमान् wise, स: Valmiki, मतिं चकार thought, स: मुनिपुङ्गव: that preeminent one among sages, चिन्तयन् pondering,शिष्यम् addressing his disciple, इदम् this, वाक्यम् statement, अब्रवीत् च and said.

M N Dutt

Resolving thus in his mind, that highly-wise one and best of sages addressed his disciple, saying.

Summary

Very wise and learned, he (Valmiki), preeminent among sages, pondered over it (for a while) and spoke these words to his disciple.

पदच्छेदः

चिन्तयन्चिन्तयत् (√चिन्तय् + शतृ, १.१)
तद् (१.१)
महाप्राज्ञश्महत्–प्राज्ञ (१.१)
चकारचकार (√कृ लिट् प्र.पु. एक.)
मतिमान्मतिमत् (१.१)
मतिम्मति (२.१)
शिष्यंशिष्य (२.१)
चैवाब्रवीद् (अव्ययः)–एव (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
वाक्यम्वाक्य (२.१)
इदंइदम् (२.१)
तद् (१.१)
मुनिपुंगवःमुनि–पुंगव (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चिन्तन्स हा प्राज्ञ
श्च काति मान्म तिम्
शि ष्यं चै वाब्र वी द्वाक्य
मि दंमुनि पुं वः