१.२.९

तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।
ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ॥

अन्वयः

भगवान् the revered one, तत्र in that forest, तस्य of that holy spot, अभ्याशे in the vicinity, अनपायिनम् without being separated from each other even for a moment, चरन्तम् ranging through the forest, चारुनिस्वनम् melodiousvoiced, क्रौञ्चयो: krauncha birds, मिथुनम् pair of, ददर्श espied.

M N Dutt

In the vicinity of the forest, that worshipful one espied a pair of Krauñcas, emitting melodious notes, and ranging around never parting from one another.

Summary

Sage Valmiki espied a pair of melodious kraunchas. Flying about in each other's in separable company there in its vicinity.

पदच्छेदः

तस्याभ्याशेतद् (६.१)–अभ्याश (७.१)
तुतु (अव्ययः)
मिथुनंमिथुन (२.१)
चरन्तम्चरत् (√चर् + शतृ, २.१)
अनपायिनम्अनपायिन् (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
भगवांस्भगवत् (१.१)
तत्रतत्र (अव्ययः)
क्रौञ्चयोश्क्रौञ्च (६.२)
चारुनिःस्वनम्चारु–निःस्वन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्या भ्या शेतुमिथु नं
न्त पायि नम्
र्श वां स्तत्र
क्रौञ्च यो श्चारु निस्व नम्