१.२३.१२

अहो वनमिदं दुर्गं झिल्लिकागणनादितम् ।
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारुतैः ॥

अन्वयः

झिल्लिकागणनादितम् having ceaseless sounds of crickets, भैरवै: by the frightful, श्वापदै: ferocious beasts, दारुणारुतै: creating fearful cries, शकुन्तै: by birds, पूर्णम् filled, इदम् this, वनम् forest, दुर्गम् inaccessible, अहो what a wonder.

Summary

"What a wonder This inaccessible forest echoes with the (shrill) chirpings of crickets It is filled with ferocious beasts and birds producing fearful sounds.

पदच्छेदः

अहोअहो (अव्ययः)
वनम्वन (१.१)
इदंइदम् (१.१)
दुर्गंदुर्ग (१.१)
झिल्लिकागणनादितम्झिल्लिका–गण–नादित (√नादय् + क्त, १.१)
भैरवैःभैरव (३.३)
श्वापदैःश्वापद (३.३)
कीर्णंकीर्ण (√कृ + क्त, १.१)
शकुन्तैर्शकुन्त (३.३)
दारुणारवैःदारुण–आरव (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

होमि दं दु र्गं
झिल्लि का नादि तम्
भै वैः श्वा दैः की र्णं
कु न्तै र्दारु णारु तैः