१.२४.१०

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥

पदच्छेदः

राक्षसत्वंराक्षस–त्व (२.१)
भजस्वेतिभजस्व (√भज् लोट् म.पु. )–इति (अव्ययः)
मारीचंमारीच (२.१)
व्याजहारव्याजहार (√व्या-हृ लिट् प्र.पु. एक.)
सःतद् (१.१)
अगस्त्यःअगस्त्य (१.१)
परमक्रुद्धस्परम–क्रुद्ध (√क्रुध् + क्त, १.१)
ताटकाम्ताटका (२.१)
अपिअपि (अव्ययः)
शप्तवान्शप्तवत् (√शप् + क्तवतु, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

राक्ष त्वं स्वेति
मा री चं व्या हा सः
स्त्यः क्रुद्ध
स्ता कापिप्त वान्