१.२५.७

तेन शब्देन वित्रस्तास्ताटका वनवासिनः ।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥

अन्वयः

ताटकावनवासिन: all the beings living in that Tataka forest, तेन शब्देन with that sound, वित्रस्ता: were terrified, ताटका च Tataka also, तेन शब्देन by that sound, सुसंक्रुद्धा was furious with anger, मोहिता amazed.

Summary

The dwellers of the Tataka forest were terrified by the sound (of the bow). Tataka, was might angry and amazed.

पदच्छेदः

तेनतद् (३.१)
शब्देनशब्द (३.१)
वित्रस्तास्वित्रस्त (√वि-त्रस् + क्त, १.३)
ताटकावनवासिनःताटका–वन–वासिन् (१.३)
ताटकाताटका (१.१)
(अव्ययः)
सुसंक्रुद्धासु (अव्ययः)–संक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
तेनतद् (३.१)
शब्देनशब्द (३.१)
मोहितामोहित (√मोहय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते ब्दे वि त्र स्ता
स्ता का वासि नः
ता कासु सं क्रु द्धा
ते ब्दे मोहि ता