१.२७.१

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥

अन्वयः

काकुत्स्थ: Rama, शुचि: having purified himself, अस्त्राणि astras, प्रतिगृह्य having received, तत: then, प्रहृष्टवदन: with pleasant countenance,गच्छन्नेव while proceeding onwards, अथ thereafter, विश्वामित्रम् addressing Visvamitra, अब्रवीत् spoke.

M N Dutt

Having accepted those weapons with purity, Käkutstha while proceeding, with a complacent countenance spoke these words to sage Visvāmitra,-

Summary

After performing the purificatory rites, Rama received the weapons with a cheerful face. In the way Rama said to Viswamitra.

पदच्छेदः

प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
ततोततस् (अव्ययः)
ऽस्त्राणिअस्त्र (२.३)
प्रहृष्टवदनःप्रहृष्ट (√प्र-हृष् + क्त)–वदन (१.१)
शुचिःशुचि (१.१)
गच्छन्न्गच्छत् (√गम् + शतृ, १.१)
एवएव (अव्ययः)
(अव्ययः)
काकुत्स्थोकाकुत्स्थ (१.१)
विश्वामित्रम्विश्वामित्र (२.१)
अथाब्रवीत्अथ (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति गृह्य तो ऽस्त्राणि
प्र हृष्ट नःशु चिः
च्छ न्ने का कु त्स्थो
वि श्वा मित्र थाब्र वीत्