१.३०.१०

धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥

अन्वयः

राजपुत्रा: princes, महाबला: possesing mighty strength, महीक्षित: kings, तस्य धनुष: that bow's, वीर्यम् prowess, जिज्ञासन्त: intent on knowing, आरोपयितुम् attempted to lift or string it, न शेकु: failed.

M N Dutt

And desirous of being acquainted with the prowess of this bow, many kings and princes came; but they in spite of their mighty strength, failed in stringing it.

Summary

Mighty princes and kings have failed to string it, in their attempt to know its strength.

पदच्छेदः

धनुषस्धनुस् (६.१)
तस्यतद् (६.१)
वीर्यंवीर्य (२.१)
हिहि (अव्ययः)
जिज्ञासन्तोजिज्ञासत् (१.३)
महीक्षितःमहीक्षित् (१.३)
(अव्ययः)
शेकुर्शेकुः (√शक् लिट् प्र.पु. बहु.)
आरोपयितुंआरोपयितुम् (√आ-रोपय् + तुमुन्)
राजपुत्राराजन्–पुत्र (१.३)
महाबलाःमहत्–बल (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु स्तस्य वी र्यंहि
जि ज्ञा न्तो हीक्षि तः
शेकु रा रोयि तुं
रा पु त्रा हा लाः