१.३३.१३

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता ।
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥

अन्वयः

महाबाहो O Mighty armed one, राम O Rama, एषा मम this is my, स्वस्य वंशस्य my family's, देशस्य च of the place also, उत्पत्ति: origin, कीर्तिता narrated, यत् which, त्वम् you, माम् me, परिपृच्छसि are asking for.

M N Dutt

Now, O Rāma, I have narrated to you the circumstances connected with the history of my line and myself, as also of this place, O mightyarmed one, which you had asked me to relate.

Summary

O mightyarmed Rama since you asked me I narrated this, my origin, the history of my family and the history of this place.

पदच्छेदः

एषाएतद् (१.१)
रामराम (८.१)
ममोत्पत्तिःमद् (६.१)–उत्पत्ति (१.१)
स्वस्यस्व (६.१)
वंशस्यवंश (६.१)
कीर्तिताकीर्तित (√कीर्तय् + क्त, १.१)
देशस्यदेश (६.१)
(अव्ययः)
महाबाहोमहत्–बाहु (८.१)
यन्यद् (२.१)
मांमद् (२.१)
त्वंत्वद् (१.१)
परिपृच्छसिपरिपृच्छसि (√परि-प्रच्छ् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

षा रा मो त्प त्तिः
स्वस्य वंस्य कीर्ति ता
देस्य हा बा हो
न्मां त्वंरि पृच्छसि