१.३३.२

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा ॥

अन्वयः

तदा then, इष्ट्याम् when Putreshti, वर्तमानायाम् was being performed, परमोदार: highly generous, ब्रह्मसुत: son of Brahma, कुश: Kusa, कुशनाभमहीपतिम् king Kusanabha, उवाच spoke.

M N Dutt

And when the sacrifice had commenced, that son of Brahmā, the exceedingly noble Kusa, spoke to king Kusanābha, saying,

Summary

Then, while putreshti was on Kusa the highly generous son of Brahma, said to king Kusanabha :

पदच्छेदः

इष्ट्यांइष्टि (७.१)
तुतु (अव्ययः)
वर्तमानायांवर्तमान (√वृत् + शानच्, ७.१)
कुशनाभंकुशनाभ (२.१)
महीपतिम्महीपति (२.१)
उवाचउवाच (√वच् लिट् प्र.पु. एक.)
परमप्रीतःपरम–प्रीत (√प्री + क्त, १.१)
कुशोकुश (१.१)
ब्रह्मसुतस्ब्रह्मन्–सुत (१.१)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ष्ट्यांतुर्त मा ना यां
कु ना भं ही तिम्
वा प्री तः
कु शो ब्रह्मसुस्त दा