१.३४.१७

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः ।
गङ्गामादाय तेऽगच्छन्कृतार्थेनान्तरात्मना ॥

अन्वयः

तत: then, ते देवा: those devatas, त्रिलोकहितकारिण: doing good for the three worlds, गङ्गाम् Ganga, प्रतिगृह्य having received, आदाय taking her, कृतार्थेन with a sense of fulfillment, अन्तरात्मना with the mind, अगच्छन् had gone.

Summary

The devatas having received Ganga committed to the welfare of the three worlds went back to their abodes with a sense of fulfilment in their mind.

पदच्छेदः

प्रतिगृह्यप्रतिगृह्य (√प्रति-ग्रह् + ल्यप्)
त्रिलोकार्थंत्रिलोक–अर्थ (२.१)
त्रिलोकहितकारिणःत्रिलोक–हित–कारिन् (१.३)
गङ्गाम्गङ्गा (२.१)
आदायआदाय (√आ-दा + ल्यप्)
तेतद् (१.३)
ऽगच्छन्अगच्छन् (√गम् लङ् प्र.पु. बहु.)
कृतार्थेनान्तरात्मनाकृतार्थ (३.१)–अन्तरात्मन् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रति गृ ह्यत्रि लो का र्थं
त्रि लोहि कारि णः
ङ्गा मा दा ते ऽगच्छ
न्कृ ता र्थे नान्त रात्म ना