१.३५.३

विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् ।
त्रीन्पथो हेतुना केन पावयेल्लोकपावनी ॥

पदच्छेदः

विस्तरंविस्तर (२.१)
विस्तरज्ञोविस्तर–ज्ञ (१.१)
ऽसिअसि (√अस् लट् म.पु. )
दिव्यमानुषसम्भवम्दिव्य–मानुष–सम्भव (२.१)
त्रीन्त्रि (२.३)
पथोपथिन् (२.३)
हेतुनाहेतु (३.१)
केन (३.१)
पावयेल्पावयेत् (√पावय् विधिलिङ् प्र.पु. एक.)
लोकपावनीलोक–पावन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

विस्त रं विस्त ज्ञोऽसि
दिव्य मानु सं वम्
त्रीन्प थो हेतु ना के
पा ये ल्लो पा नी