१.३५.७

शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।
न चापि तनयो राम तस्यामासीत्परंतप ॥

अन्वयः

परन्तप O Tormentor of enemies, राम O Rama, देवस्य of the lord, शितिकण्ठस्य Siva's, दिव्यम् celestial, वर्षशतम् hundred years, गतम् was over, अपि च even then, तस्याम् in her (the womb of goddess Parvati), तनय: son, न आसीत् was not born.

Summary

O Rama, tormentor of enemies, while Lord Siva was thus absorbed in sexual enjoyment, a hundred (celestial) years passed but no son was born to them.

पदच्छेदः

शितिकण्ठस्यशितिकण्ठ (६.१)
देवस्यदेव (६.१)
दिव्यंदिव्य (१.१)
वर्षशतंवर्ष–शत (१.१)
गतम्गत (√गम् + क्त, १.१)
(अव्ययः)
चापि (अव्ययः)–अपि (अव्ययः)
तनयोतनय (१.१)
रामराम (८.१)
तस्याम्तद् (७.१)
आसीत्आसीत् (√अस् लङ् प्र.पु. एक.)
परंतपपरंतप (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शिति ण्ठस्य देस्य
दि व्यंर्ष तं तम्
चापि यो रा
स्या मा सीत्प रं