१.४.१०

रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ ॥

पदच्छेदः

रूपलक्षणसम्पन्नौरूप–लक्षण–सम्पन्न (√सम्-पद् + क्त, १.२)
मधुरस्वरभाषिणौमधुर–स्वर–भाषिन् (१.२)
बिम्बाद्बिम्ब (५.१)
इवोद्धृतौइव (अव्ययः)–उद्धृत (√उद्-धृ + क्त, १.२)
बिम्बौबिम्ब (१.२)
रामदेहात्राम–देह (५.१)
तथापरौतथा (अव्ययः)–अपर (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रूक्ष सं न्नौ
धुस्व भाषि णौ
बि म्बादि वोद्धृ तौ बि म्बौ
रा दे हात्त था रौ