१.४.१५

ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।
प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥

अन्वयः

धर्मवत्सला: ते सर्वे all those who love dharma, मुनय: sages, प्रीतमनस: pleased, प्रशस्तव्यौ praiseworthy, गायमानौ while both of them were chanting, कुशीलवौ singers (Kusa and Lava), प्रशशंसु: praised.

Summary

All the sages steeped in dharma, pleased with them, praised the admirable Kusa and Lava as they sang.

पदच्छेदः

तेतद् (१.३)
प्रीतमनसःप्रीत (√प्री + क्त)–मनस् (१.३)
सर्वेसर्व (१.३)
मुनयोमुनि (१.३)
धर्मवत्सलाःधर्म–वत्सल (१.३)
प्रशशंसुःप्रशशंसुः (√प्र-शंस् लिट् प्र.पु. बहु.)
प्रशस्तव्यौप्रशस्तव्य (√प्र-शंस् + कृत्, २.२)
गायमानौगायमान (√गा + शानच्, २.२)
कुशीलवौकुशीलव (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते प्री सः र्वे
मु योर्मत्स लाः
प्र शं सुःप्र स्त व्यौ
गा मा नौकु शी वौ