१.४२.२१

भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः ।
प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात् ॥

अन्वयः

अथः downwards, तासाम् among them, सप्तमी seventh, भगीरथम् Bhagiratha, नृपम् king, अन्वगात् followed, महातेजाः most brilliant, राजर्षि: royal sage, भगीरथोऽपि Bhagiratha also, दिव्यम् divine, स्यन्दनम् chariot, आस्थित: mounting, अग्रे प्रायात् marched forward, गङ्गा च Ganga, अनुव्रजत् followed.

M N Dutt

And stationed on an excellent car that mighty king, the royal saint Bhagiratha, went first, and Gangā went at his back.

Summary

The seventh stream among them followed Bhagiratha. The most brilliant rajarshi Bhagiratha also mounting on divine chariot raced forward and Ganga followed him.

पदच्छेदः

भगीरथोभगीरथ (१.१)
ऽपिअपि (अव्ययः)
राजर्षिर्राजर्षि (१.१)
दिव्यंदिव्य (२.१)
स्यन्दनम्स्यन्दन (२.१)
आस्थितःआस्थित (√आ-स्था + क्त, १.१)
प्रायाद्प्रायात् (√प्र-या लङ् प्र.पु. एक.)
अग्रेअग्र (७.१)
महातेजास्महत्–तेजस् (१.१)
तंतद् (२.१)
गङ्गागङ्गा (१.१)
पृष्ठतोपृष्ठतस् (अव्ययः)
ऽन्वगात्अन्वगात् (√अनु-गा प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गी थोऽपि रार्षि
र्दि व्यं स्यन्द मास्थि तः
प्रा या ग्रे हा ते जा
स्तं ङ्गा पृष्ठ तोऽन्व गात्