१.४४.३

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।
जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥

अन्वयः

तदा then, तस्य Rama, सौमित्रिणा सह together with Lakshmana, शुभाम् holy, विश्वामित्रकथाम् the story narrated by Visvamitra, चिन्तयानस्य while thinking, सा that, सर्वा completely, शर्वरी night, जगाम passed away.

M N Dutt

And the live-long night has passed away as I in company with Sumitrā's son, was pondering over Viśvāmitra's auspicious speech.'

Summary

Then Rama along with Lakshmana spent the whole night reflecting on the auspicious story narrated by Viswamitra.

पदच्छेदः

तस्यतद् (६.१)
सातद् (१.१)
शर्वरीशर्वरी (१.१)
सर्वासर्व (१.१)
सहसह (अव्ययः)
सौमित्रिणासौमित्रि (३.१)
तदातदा (अव्ययः)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
चिन्तयानस्यचिन्तयान (√चिन्तय् + शानच्, ६.१)
विश्वामित्रकथांविश्वामित्र–कथा (२.१)
शुभाम्शुभ (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य सार्व री र्वा
सौ मित्रि णा दा
गा चिन्त यास्य
वि श्वा मित्र थांशु भाम्