१.४६.८

सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।
विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः ॥

अन्वयः

ते to you, यथा as, उक्तम् said, एतत् सर्वम् all this, भविष्यति will take place, संशय: doubt, न not there, तव your, आत्मजा: sons, देवभूता: like celestial beings, विचरिष्यन्ति shall wander about, भद्रम् ते prosperity to you.

M N Dutt

All this that you have said must come to pass; there is no doubt about it. Good betide you, your sons endowed with celestial forms, shall range about.

Summary

"Everything will, no doubt, happen the way you said. Your sons will wander about as celestial beings. Prosperity to you."

पदच्छेदः

सर्वम्सर्व (१.१)
एतद्एतद् (१.१)
यथोक्तंयथा (अव्ययः)–उक्त (√वच् + क्त, १.१)
तेत्वद् (६.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
(अव्ययः)
संशयःसंशय (१.१)
विचरिष्यन्तिविचरिष्यन्ति (√वि-चर् लृट् प्र.पु. बहु.)
भद्रंभद्र (१.१)
तेत्वद् (४.१)
देवभूतास्देव–भूत (√भू + क्त, १.३)
तवात्मजाःत्वद् (६.१)–आत्मज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्व मेद्य थो क्तं ते
विष्यति सं यः
वि रि ष्यन्ति द्रं ते
दे भू तास्त वात्म जाः