१.४७.१०

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम् ।
साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥

अन्वयः

सर्वे all, मुनय: ascetics, जनकस्य Janaka's, ताम् that, शुभाम् auspicious, पुरीम् city, दृष्ट्वा having seen, साधु साधु इति excellent, excellent, शंसन्त: admiring, मिथिलाम् Mithila, समपूजयन् worshipped.

M N Dutt

Beholding Janaka's beauteous city, the ascetics exclaiming, 'Excellent' fell to admiring Mithila.

Summary

All the ascetics, having seen that auspicious city of Janaka worshipfully admired Mithila saying, 'Excellent, Excellent'

पदच्छेदः

तांतद् (२.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
मुनयःमुनि (१.३)
सर्वेसर्व (१.३)
जनकस्यजनक (६.१)
पुरींपुरी (२.१)
शुभाम्शुभ (२.१)
साधुसाधु (१.१)
साध्व्साधु (१.१)
इतिइति (अव्ययः)
शंसन्तोशंसत् (√शंस् + शतृ, १.३)
मिथिलांमिथिला (२.१)
समपूजयन्समपूजयन् (√सम्-पूजय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तां दृ ष्ट्वामु यः र्वे
स्यपु रींशु भाम्
साधु साध्विति शं न्तो
मिथि लां पू यन्