१.४७.२

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥

पदच्छेदः

इमौइदम् (१.२)–इदम् (१.२)
कुमारौकुमार (१.२)–कुमार (१.२)
भद्रंभद्र (१.१)–भद्र (१.१)
तेत्वद् (४.१)–त्वद् (४.१)
देवतुल्यपराक्रमौदेव–तुल्य–पराक्रम (१.२)–देव–तुल्य–पराक्रम (१.२)
गजसिंहगतीगज–सिंह–गति (१.२)–गज–सिंह–गति (१.२)
वीरौवीर (१.२)–वीर (१.२)
शार्दूलवृषभोपमौशार्दूल–वृषभ–उपम (१.२)–शार्दूल–वृषभ–उपम (१.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मौकु मा रौ द्रं ते
दे तुल्य राक्र मौ
सिं ती वी रौ
शा र्दूवृ भो मौ