१.४७.२६

मम रूपं समास्थाय कृतवानसि दुर्मते ।
अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यति ॥

अन्वयः

दुर्मते O Wicked natured one, मम my, रूपम् form, समास्थाय assuming, इदम् this, अकर्तव्यम् an act which should not be done, कृतवान् असि have done, तस्मात् for that reason, त्वम् you, विफल: devoid of scrotum, भविष्यसि will become.

M N Dutt

'And since, O you of wicked understanding, assuming my form, you have done this foul. deed, you shall lose your scrotum.'

Summary

"O Wicked natured one assuming my form you have done a forbidden act. For that reason you shall be devoid of scrotum.

पदच्छेदः

मममद् (६.१)
रूपंरूप (२.१)
समास्थायसमास्थाय (√समा-स्था + ल्यप्)
कृतवान्कृतवत् (√कृ + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )
दुर्मतेदुर्मति (८.१)
अकर्तव्यम्अकर्तव्य (२.१)
इदंइदम् (२.१)
यस्माद्यद् (५.१)
विफलस्विफल (१.१)
त्वंत्वद् (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रू पं मा स्था
कृ वासि दुर्म ते
र्तव्यमि दं स्मा
द्वि स्त्वं विष्यति