१.४८.१७

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ ॥

पदच्छेदः

राघवौराघव (१.२)
तुतु (अव्ययः)
ततस्ततस् (अव्ययः)
तस्याःतद् (६.१)
पादौपाद (२.२)
जगृहतुस्जगृहतुः (√ग्रह् लिट् प्र.पु. द्वि.)
तदातदा (अव्ययः)
स्मरन्तीस्मरत् (√स्मृ + शतृ, १.१)
गौतमवचःगौतम–वचस् (२.१)
प्रतिजग्राहप्रतिजग्राह (√प्रति-ग्रह् लिट् प्र.पु. एक.)
सातद् (१.१)
(अव्ययः)
तौतद् (२.२)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा वौतु स्त स्याः
पा दौगृ तुस्त दा
स्म न्ती गौ चः
प्रति ग्रा सा तौ