१.४९.७

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम् ।
विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम् ॥

अन्वयः

महात्मान: eminent, ऋत्विजोऽपि officiating priests also, सत्वरम् quickly, अर्घ्यम् offerings of worship, आदाय having brought, मन्त्रपुरस्कृतम् with prayers, विश्वामित्राय for Viswamitra, ददु: offered.

Summary

Eminent officiating priests speedily brought the offerings of worship and paid obeisance to Viswamitra with prayers.

पदच्छेदः

ऋत्विजोऋत्विज् (१.३)
ऽपिअपि (अव्ययः)
महात्मानस्महात्मन् (१.३)
त्व्तु (अव्ययः)
अर्घ्यम्अर्घ्य (२.१)
आदायआदाय (√आ-दा + ल्यप्)
सत्वरम्सत्वर (२.१)
विश्वामित्रायविश्वामित्र (४.१)
धर्मेणधर्म (३.१)
ददुर्ददुः (√दा लिट् प्र.पु. बहु.)
मन्त्रपुरस्कृतम्मन्त्र–पुरस्कृत (√पुरस्-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्वि जोऽपि हा त्मा
स्त्वर्घ्य मा दात्व रम्
वि श्वा मि त्रा र्मे
दु र्मन्त्रपुस्कृ तम्