१.५.२

येषां स सगरो नाम सागरो येन खानितः ।
षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥

अन्वयः

येन by whom, सागर: ocean, खानित: was made to be dug, यान्तम् while he was marching (to the battle), यम् whom, षष्टि: पुत्रसहस्राणि sixty thousand sons, पर्यवारयन् surrounded by, स: that, सगरो नाम king named Sagara, येषाम् amongst those.

Summary

Among them a king named Sagara got the ocean dug and his sixty thousand sons surrounded him whenever he went (to battle).

पदच्छेदः

येषांयद् (६.३)
तद् (१.१)
सगरोसगर (१.१)
नामनाम (अव्ययः)
सागरोसागर (१.१)
येनयद् (३.१)
खानितःखानित (√खानय् + क्त, १.१)
षष्टिःषष्टि (१.१)
पुत्रसहस्राणिपुत्र–सहस्र (१.३)
यंयद् (२.१)
यान्तंयान्त् (√या + शतृ, २.१)
पर्यवारयन्पर्यवारयन् (√परि-वारय् लङ् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये षां रो ना
सा रो ये खानि तः
ष्टिः पुत्र स्राणि
यं या न्तंर्य वा यन्