१.५.६

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥

अन्वयः

तत्र in that Kosala country, या पुरी that city, मानवेन्द्रेण by lord of men, मनुना by Manu, स्वयम् personally, निर्मिता built, अयोध्या नाम named Ayodhya, लोकविश्रुता famous, नगरी city, आसीत् existed.

M N Dutt

The capital of that country was Ayodhyā famed among men, which was founded by Manu himself that foremost of men.

Summary

In the country called Kosala was the famous capital city of Ayodhya built by the lord of men, Manu .

पदच्छेदः

अयोध्याअयोध्या (१.१)
नामनाम (अव्ययः)
नगरीनगरी (१.१)
तत्रासील्तत्र (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
लोकविश्रुतालोक–विश्रुत (√वि-श्रु + क्त, १.१)
मनुनामनु (३.१)
मानवेन्द्रेणमानव–इन्द्र (३.१)
यायद् (१.१)
पुरीपुरी (१.१)
निर्मितानिर्मित (√निः-मा + क्त, १.१)
स्वयम्स्वयम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यो ध्या ना री
त्रा सी ल्लो विश्रु ता
नु ना मा वे न्द्रे
यापु री निर्मि तास्व यम्