१.५०.९

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।
इहागतेन रामेण प्रयतेनाभिवादितः ॥

अन्वयः

कुशिकात्मज O Kusika's son, इह here, आगतेन came, प्रयतेन piously disposed, रामेण by Rama, मे गुरु: my father, शान्तेन with tranquil, मनसा mind, अपि अभिवादित: saluted respectfully?

M N Dutt

And, O Kusika's son, was my revered sire of quiescent soul, saluted by Rāma when he arrived there?

Summary

O Kushika's son did pious Rama welcome my father with a tranquil mind when he arrived?"

पदच्छेदः

अपिअपि (अव्ययः)
शान्तेनशान्त (√शम् + क्त, ३.१)
मनसामनस् (३.१)
गुरुर्गुरु (१.१)
मेमद् (६.१)
कुशिकात्मजकुशिक–आत्मज (८.१)
इहागतेनइह (अव्ययः)–आगत (√आ-गम् + क्त, ३.१)
रामेणराम (३.१)
प्रयतेनाभिवादितःप्रयत (√प्र-यम् + क्त, ३.१)–अभिवादित (√अभि-वादय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पि शा न्ते सा
गु रु र्मेकुशि कात्म
हा ते रा मे
प्र ते नाभि वादि तः