१.५२.२०

नानावर्णविभक्तानां वयःस्थानां तथैव च ।
ददाम्येकां गवां कोटिं शबला दीयतां मम ॥

अन्वयः

नानावर्णविभक्तानाम् distinctly separated by colours, तथैव and, वयस्स्थानाम् of youthful, गवाम् cows, एकाम् one, कोटिम् crore, ददामि I shall give, मम for me, शबला Sabala, दीयताम् be given.

Summary

I shall give one crore young cows of various colours. Give me Sabala.

पदच्छेदः

नानावर्णविभक्तानांनाना (अव्ययः)–वर्ण–विभक्त (√वि-भज् + क्त, ६.३)
वयःस्थानांवयस्–स्थ (६.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
(अव्ययः)
ददाम्य्ददामि (√दा लट् उ.पु. )
एकांएक (२.१)
गवांगो (६.३)
कोटिंकोटि (२.१)
शबलाशबला (१.३)
दीयतांदीयताम् (√दा प्र.पु. एक.)
मममद् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ना नार्णवि क्ता नां
यः स्था नां थै
दा म्ये कां वां को टिं
ला दी तां