१.५३.२०

विश्वामित्रार्दितान्दृष्ट्वा पह्लवाञ्शतशस्तदा ।
भूय एवासृजद्घोराञ्शकान्यवनमिश्रितान् ॥

अन्वयः

विश्वामित्रार्दितान् afflicted by Visvamitra, शतश: hundreds of, पप्लवान् Papalavas, दृष्ट्वा having seen, तदा then, कोपात् out of anger, भूय एव again, यवनमिश्रितान् mixed with Yavanas, शकान् Sakas, असृजत् created.

Summary

Having seen hundreds of Paplavas crushed by Viswamitra, once again she created out of anger. Sakas mixed with Yavanas.

पदच्छेदः

विश्वामित्रार्दितान्विश्वामित्र–अर्दित (√अर्दय् + क्त, २.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
पह्लवाञ्पह्लव (२.३)
शतशस्शतशस् (अव्ययः)
तदातदा (अव्ययः)
भूयभूयस् (अव्ययः)
एवासृजद्एव (अव्ययः)–असृजत् (√सृज् लङ् प्र.पु. एक.)
घोराञ्घोर (२.३)
शकान्शक (२.३)
यवनमिश्रितान्यवन–मिश्रित (√मिश्रय् + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि श्वा मि त्रार्दि ता न्दृ ष्ट्वा
ह्ल वाञ्शस्त दा
भू वासृ द्घो रा
ञ्श कान्य मिश्रि तान्