१.५४.२३

वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः ।
विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः ॥

अन्वयः

वसिष्ठस्य Vasishta's, ये those, शिष्या: disciples, तथैव as well as, मृगपक्षिण: animals and birds, भयात् for the reason of fear, भीता: terrified, सहस्रश: in thousands, नानादिग्भ्य: in all directions, विद्रवन्ति fled.

M N Dutt

Vasiştha's disciples as well as the animals and birds inhabiting there, fled in all direction by thousands.

Summary

The disciples of Vasishta as well as animals and birds got terrified by the fear and fled in their thousands in all directions.

पदच्छेदः

वसिष्ठस्यवसिष्ठ (६.१)
(अव्ययः)
येयद् (१.३)
शिष्यास्शिष्य (१.३)
तथैवतथा (अव्ययः)–एव (अव्ययः)
मृगपक्षिणःमृग–पक्षिन् (१.३)
विद्रवन्तिविद्रवन्ति (√वि-द्रु लट् प्र.पु. बहु.)
भयाद्भय (५.१)
भीताभीत (√भी + क्त, १.३)
नानादिग्भ्यःनाना (अव्ययः)–दिश् (५.३)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि ष्ठस्य ये शि ष्या
स्त थैमृक्षि णः
विद्रन्ति या द्भी ता
ना ना दि ग्भ्यःस्र शः