१.५४.२७

आश्रमं चिरसंवृद्धं यद्विनाशितवानसि ।
दुराचारोऽसि यन्मूढ तस्मात्त्वं न भविष्यसि ॥

अन्वयः

मूढ O Fool, चिरसम्वृद्धम् developed over long time, आश्रमम् hermitage, यत् for what reason, विनाशितवान् असि you have destroyed, तत् for that reason, दुराचार: असि you are illbehaved, तस्मात् for that reason, त्वम् you, न भविष्यसि will not live.

M N Dutt

Since, O fool, you have destroyed this hermitage that had been prospering for a long time, you of execrable ways shall not live long.

Summary

"O Fool this hermitage has been developed over a long time. Why did you destroy it? On account of your wickedness you will not live long."

पदच्छेदः

आश्रमंआश्रम (२.१)
चिरसंवृद्धंचिर–संवृद्ध (√सम्-वृध् + क्त, २.१)
यद्यत् (अव्ययः)
विनाशितवान्विनाशितवत् (√वि-नाशय् + क्तवतु, १.१)
असिअसि (√अस् लट् म.पु. )
दुराचारोदुराचार (१.१)
ऽसिअसि (√अस् लट् म.पु. )
यन्यत् (अव्ययः)
मूढमूढ (√मुह् + क्त, ८.१)
तस्मात्तस्मात् (अव्ययः)
त्वंत्वद् (१.१)
(अव्ययः)
भविष्यसिभविष्यसि (√भू लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्र मंचि सं वृ द्धं
द्वि नाशि वासि
दु रा चा रोऽसि न्मू
स्मा त्त्वं विष्यसि