१.५५.१७

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः ।
त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम् ॥

अन्वयः

ब्रह्मास्त्रम् Brahma astra, ग्रसमानस्य while swallowing, महात्मन: of the magnanimous, वसिष्ठस्य Vasishta's, रूपम् form, त्रैलोक्यमोहनम् causing the three worlds to faint, रौद्रम् fierce, सुदारुणम् आसीत् became terrible.

M N Dutt

When the high-souled Vasiştha had baffled the Brahmă weapon, his form the three worlds.

Summary

While swallowing Brahmastra the great Vasishta looked fierce and terrible causing the three worlds to faint.

पदच्छेदः

ब्रह्मास्त्रंब्रह्मास्त्र (२.१)
ग्रसमानस्यग्रसमान (√ग्रस् + शानच्, ६.१)
वसिष्ठस्यवसिष्ठ (६.१)
महात्मनःमहात्मन् (६.१)
त्रैलोक्यमोहनंत्रैलोक्य–मोहन (१.१)
रौद्रंरौद्र (१.१)
रूपम्रूप (१.१)
आसीत्आसीत् (√अस् लङ् प्र.पु. एक.)
सुदारुणम्सु (अव्ययः)–दारुण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र ह्मा स्त्रंग्र मास्य
सि ष्ठस्य हात्म नः
त्रै लोक्य मो नं रौ द्रं
रू मा सीत्सु दारु णम्