१.५७.१४

किमागमनकार्यं ते राजपुत्र महाबल ।
अयोध्याधिपते वीर शापाच्चण्डालतां गतः ॥

अन्वयः

महाबल mighty, राजपुत्र O Prince, ते your, आगमनकार्यम् purpose of coming, किम् what, अयोध्याधिपते O Lord of Ayodhya, वीर hero, शापात् from the curse, चण्डालताम् chandalahood, गत: you have obtained.

Summary

"O Mighty prince what brings your here, for you are the heroic lord of Ayodhya? Whose curse turned you into a chandala"?

पदच्छेदः

किम् (१.१)
आगमनकार्यंआगमन–कार्य (१.१)
तेत्वद् (६.१)
राजपुत्रराजन्–पुत्र (८.१)
महाबलमहत्–बल (८.१)
अयोध्याधिपतेअयोध्या–अधिपति (८.१)
वीरवीर (८.१)
शापाच्चण्डालतांशाप (५.१)–चण्डाल–ता (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कि मा का र्यं ते
रा पुत्र हा
यो ध्याधि ते वी
शा पा च्च ण्डा तां तः