१.५८.१०

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया ।
आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः ॥

अन्वयः

तस्य his, तत् वचनम् that word, श्रुत्वा having listened, तदाज्ञया by his order, दिश: in different directions, जग्मु: went, अथ thereafter, सर्वेभ्य: from all, देशेभ्य: countries, ब्रह्मवादिन: expounders of veda, आजग्मु: arrived.

Summary

At his command the disciples set out in different directions. And as a result, expounders of the vedas began arriving from various countries.

पदच्छेदः

तस्यतद् (६.१)
तद्वचनंतद् (२.१)–वचन (२.१)
श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
दिशोदिश् (२.३)
जग्मुस्जग्मुः (√गम् लिट् प्र.पु. बहु.)
तदाज्ञयातद्–आज्ञा (३.१)
आजग्मुर्आजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)
अथअथ (अव्ययः)
देशेभ्यःदेश (५.३)
सर्वेभ्योसर्व (५.३)
ब्रह्मवादिनःब्रह्मन्–वादिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्यद्व नं श्रु त्वा
दि शो ग्मुस्त दाज्ञ या
ग्मु दे शे भ्यः
र्वे भ्यो ब्रह्म वादि नः