१.५८.११

ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ।
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् ॥

अन्वयः

ते शिष्या: those disciples, सर्वे all, समागम्य having returned, ज्वलिततेजसम् shining with splendour, मुनिम् sage visvamitra, सर्वेषाम् of all, ब्रह्मवादिनाम् of the expounders of veda, वचनम् words, ऊचुश्च told.

Summary

All the disciples on their return, communicated to the sage shining in splendour what the expounders of the vedas had said.

पदच्छेदः

तेतद् (१.३)
(अव्ययः)
शिष्याःशिष्य (१.३)
समागम्यसमागम्य (√समा-गम् + ल्यप्)
मुनिंमुनि (२.१)
ज्वलिततेजसम्ज्वलित (√ज्वल् + क्त)–तेजस् (२.१)
ऊचुश्ऊचुः (√वच् लिट् प्र.पु. बहु.)
(अव्ययः)
वचनंवचन (२.१)
सर्वेसर्व (१.३)
सर्वेषांसर्व (६.३)
ब्रह्मवादिनाम्ब्रह्मन्–वादिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते शि ष्याः माम्य
मु निंज्वलि ते सम्
चुश्च नं र्वे
र्वे षां ब्रह्म वादि नाम्