१.५८.१५

ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ।
कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः ॥

अन्वयः

विश्वामित्रेण by Visvamitra, पालिता: ruled, महात्मान: magnanimous, ब्राह्मणा: वा brahmins, चाण्डालभोजनम् food offered by a chandala, भुक्त्वा having partaken, स्वर्गम् heaven, कथम् how, गमिष्यन्ति will attain.

Summary

Joining Viswamitra, (in chanting the mantras during the yaga) how will the great brahmins attain heaven after partaking the food offered by of Chandala?

पदच्छेदः

ब्राह्मणाब्राह्मण (१.३)
वावा (अव्ययः)
महात्मानोमहात्मन् (१.३)
भुक्त्वाभुक्त्वा (√भुज् + क्त्वा)
चण्डालभोजनम्चण्डाल–भोजन (२.१)
कथंकथम् (अव्ययः)
स्वर्गंस्वर्ग (२.१)
गमिष्यन्तिगमिष्यन्ति (√गम् लृट् प्र.पु. बहु.)
विश्वामित्रेणविश्वामित्र (३.१)
पालिताःपालित (√पालय् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्राह्म णा वा हा त्मा नो
भु क्त्वा ण्डा भो नम्
थं स्व र्गं मि ष्यन्ति
वि श्वा मि त्रे पालि ताः