१.५८.४

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते ।
अनेन सह रूपेण सशरीरो गमिष्यसि ॥

अन्वयः

गुरुशापकृतम् as a result of the curse of spiritual preceptor, यत् which, रूपम् form, त्वयि in you, वर्तते existing, अनेन by this, रूपेण सह with form, सशरीर: with the physical body, गमिष्यसि you shall go.

Summary

With the present physical body disfigured by the curse of your spiritual preceptor, you shall go to heaven.

पदच्छेदः

गुरुशापकृतंगुरु–शाप–कृत (√कृ + क्त, १.१)
रूपंरूप (१.१)
यद्यद् (१.१)
इदंइदम् (१.१)
त्वयित्वद् (७.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
अनेनइदम् (३.१)
सहसह (अव्ययः)
रूपेणरूप (३.१)
सशरीरो (अव्ययः)–शरीर (१.१)
गमिष्यसिगमिष्यसि (√गम् लृट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गुरु शाकृ तं रू पं
दि दंत्वयिर्त ते
ने रू पे
री रो मिष्यसि