१.५८.५

हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर ।
यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः ॥

अन्वयः

नराधिप O King, य: such that, त्वम् you, शरण्यम् fit to take refuge in, कौशिकम् Visvamitra, आगम्य having reached, शरणागतः have taken refuge, तव for you, स्वर्गम् heaven, हस्तप्राप्तम् already in your hand, मन्ये I consider.

Summary

O King since you have taken refuge in Viswamitra who is the protector of those who resort to him, I think heaven is already within your reach".

पदच्छेदः

हस्तप्राप्तम्हस्त–प्राप्त (√प्र-आप् + क्त, २.१)
अहंमद् (१.१)
मन्येमन्ये (√मन् लट् उ.पु. )
स्वर्गंस्वर्ग (२.१)
तवत्वद् (६.१)
नरेश्वरनरेश्वर (८.१)
यस्यद् (१.१)
त्वंत्वद् (१.१)
कौशिकम्कौशिक (२.१)
आगम्यआगम्य (√आ-गम् + ल्यप्)
शरण्यंशरण्य (२.१)
शरणंशरण (२.१)
गतःगत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्त प्राप्त हं न्ये
स्व र्गं रेश्व
स्त्वं कौशि माम्य
ण्यं णं तः