१.५९.१०

ततः कालेन महता विश्वामित्रो महातपाः ।
चकारावाहनं तत्र भागार्थं सर्वदेवताः ॥

अन्वयः

तत: thereafter, महातपा: mighty ascetic, विश्वामित्र: Visvamitra, महताकालेन after a long time, तत्र there, सर्वदेवता: all devatas, भागार्थम् to partake their share, आवाहनं चकार invoked.

Summary

Long after, the mighty ascetic Viswamitra invoked all the gods to partake their share of offerings.

पदच्छेदः

ततःततस् (अव्ययः)
कालेनकाल (३.१)
महतामहत् (३.१)
विश्वामित्रोविश्वामित्र (१.१)
महातपाःमहत्–तपस् (१.१)
चकारावाहनंचकार (√कृ लिट् प्र.पु. एक.)–आवाहन (२.१)
तत्रतत्र (अव्ययः)
भागार्थंभाग–अर्थ (२.१)
सर्वदेवताःसर्व–देवता (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः का ले ता
वि श्वा मि त्रो हा पाः
का रा वा नंत्र
भा गा र्थंर्व दे ताः