१.५९.१४

स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ।
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज ॥

अन्वयः

राजन् O King, मया by me, स्वार्जितम् selfearned, तपस: फलम् fruit of austerities, किञ्चिदपि even little, अस्ति हि is remaining, तस्य its, स्वतेजसा by its power, सशरीर: with physical body, दिवम् heaven, व्रज you may go.

Summary

By the power of what little fruit of austerities I have earned, I shall send to heaven with your body".

पदच्छेदः

स्वार्जितंस्व–अर्जित (√अर्जय् + क्त, १.१)
किंचिद्कश्चित् (१.१)
अप्य्अपि (अव्ययः)
अस्तिअस्ति (√अस् लट् प्र.पु. एक.)
मयामद् (३.१)
हिहि (अव्ययः)
तपसःतपस् (६.१)
फलम्फल (१.१)
राजंस्राजन् (८.१)
त्वंत्वद् (१.१)
तेजसातेजस् (३.१)
तस्यतद् (६.१)
सशरीरो (अव्ययः)–शरीर (१.१)
दिवंदिव् (२.१)
व्रजव्रज (√व्रज् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्वार्जि तं किंचि प्यस्ति
याहि सः लम्
रा जं स्त्वं ते सास्य
री रोदि वंव्र