१.५९.१९

तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ।
रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥

अन्वयः

कौशिक: Visvamitra, क्रोशमानस्य crying, तस्य his, तत् वचनम् that word, श्रुत्वा having listened, तीव्रम् severe, रोषम् anger, आहारयत् fetched, तिष्ठ इति "Stay, Stay", अब्रवीत् spoke.

Summary

Having heard the wailing Trisanku, the enraged Viswamitra shouted, "Stay, Stay".

पदच्छेदः

तच्तद् (२.१)
छ्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
वचनंवचन (२.१)
तस्यतद् (६.१)
क्रोशमानस्यक्रोशमान (√क्रुश् + शानच्, ६.१)
कौशिकःकौशिक (१.१)
रोषम्रोष (२.१)
आहारयत्आहारयत् (√आ-हारय् लङ् प्र.पु. एक.)
तीव्रंतीव्र (२.१)
तिष्ठतिष्ठ (√स्था लोट् म.पु. )
तिष्ठेतितिष्ठ (√स्था लोट् म.पु. )–इति (अव्ययः)
चाब्रवीत् (अव्ययः)–अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छ्रु त्वा नंस्य
क्रो मास्य कौशि कः
रो मा हा त्ती व्रं
तिष्ठ ति ष्ठेति चाब्र वीत्