१.५९.२२

सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ।
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः ।
दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे ॥

अन्वयः

नक्षत्रवंशं च system of stars, सृष्टवा having created, क्रोधेन out of wrath, कलुषीकृत: having his vision blurred, अन्यम् another, इन्द्रं Indra, करिष्यामि I will create, लोक: this world, अनिन्द्रक: वा स्यात् or will be without Indra (saying so), स: he दैवतान्यपि even devatas, क्रोधात् with anger, स्रष्टुम् to create, समुपचक्रमे commenced.

Summary

Having created a constellation of stars, Viswamitra out of anger said, "I will create another Indra or this world will be without Indra" and commenced to create even gods.

पदच्छेदः

सृष्ट्वासृष्ट्वा (√सृज् + क्त्वा)
नक्षत्रवंशंनक्षत्र–वंश (२.१)
(अव्ययः)
क्रोधेनक्रोध (३.१)
कलुषीकृतःकलुषीकृत (√कलुषी-कृ + क्त, १.१)
अन्यम्अन्य (२.१)
इन्द्रंइन्द्र (२.१)
करिष्यामिकरिष्यामि (√कृ लृट् उ.पु. )
लोकोलोक (१.१)
वावा (अव्ययः)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
अनिन्द्रकःअनिन्द्रक (१.१)
दैवतान्य्दैवत (२.३)
अपिअपि (अव्ययः)
तद् (१.१)
क्रोधात्क्रोध (५.१)
स्रष्टुंस्रष्टुम् (√सृज् + तुमुन्)
समुपचक्रमेसमुपचक्रमे (√समुप-क्रम् लिट् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
सृ ष्ट्वा क्षत्र वं शं क्रो धे
लु षीकृ तःन्य मि न्द्रं रि ष्यामि
लो को वा स्या निन्द्र कः दै तान्य
पि क्रो धा त्स्र ष्टुंमुक्र मे