१.६.२२

अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः ।
भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी ॥

पदच्छेदः

अञ्जनाद्अञ्जन (५.१)
अपिअपि (अव्ययः)
निष्क्रान्तैर्निष्क्रान्त (√निः-क्रम् + क्त, ३.३)
वामनाद्वामन (५.१)
अपिअपि (अव्ययः)
(अव्ययः)
द्विपैःद्विप (३.३)
भद्रमन्द्रैर्भद्र–मन्द्र (३.३)
भद्रमृगैर्भद्रमृग (३.३)
मृगमन्द्रैश्मृगमन्द्र (३.३)
(अव्ययः)
सातद् (१.१)
पुरीपुरी (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ञ्ज नापि नि ष्क्रा न्तै
र्वा नापिद्वि पैः
द्र न्द्रै र्भद्रमृ गै
र्मृ न्द्रैश्च सापु री