१.६.२३

नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः ।
सा योजने च द्वे भूयः सत्यनामा प्रकाशते ॥

पदच्छेदः

नित्यमत्तैःनित्य–मत्त (√मद् + क्त, ३.३)
सदासदा (अव्ययः)
पूर्णापूर्ण (१.१)
नागैर्नाग (३.३)
अचलसंनिभैःअचल–संनिभ (३.३)
सातद् (१.१)
योजनेयोजन (२.२)
(अव्ययः)
द्वेद्वि (२.२)
भूयःभूयस् (अव्ययः)
सत्यनामासत्यनामा (१.१)
प्रकाशतेप्रकाशते (√प्र-काश् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नित्य त्तैः दा पू र्णा
ना गै संनि भैः
सा यो ने द्वे भू यः
त्य ना माप्र का ते